|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.211. अध्यायः 211
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतीप्रति निवृत्तिधर्मफलकथनम्॥ 1 ॥ तथा गार्हस्थ्यप्रशंसनपूर्वकं तद्धर्मफलादिकथनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
उक्तस्त्वया त्रिवर्गस्य धर्मश्च परमः शुभः।
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीतु मे। 13-211-1(89536)
महेश्वर उवाच। 13-211-2x(7480)
ब्रह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना।
लोकांस्तारयितुं युक्ता मर्त्येषु क्षितिदेवताः॥ 13-211-2(89537)
तेषु तावत्प्रवक्ष्यामि धर्मं शुभफलोदयम्।
ब्राह्मणेष्वभयो धर्मः परमः शुभलक्षणः॥ 13-211-3(89538)
इमे च धर्मा लोकानां पूर्वं सृष्टाः स्वयंभुवा।
पृथिव्यां सद्द्विजैर्नित्यं कीर्त्यमानं निबोध मे॥ 13-211-4(89539)
स्वदारनिरतिर्धर्मो नित्यं जप्यं तथैव च।
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्॥ 13-211-5(89540)
शूद्रो धर्मपरो नित्यं शुश्रूषानिरतो भवेत्॥ 13-211-6(89541)
त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः।
त्रिवर्गस्य व्यतिक्रान्तं तस्य धर्मः सनातनः॥ 13-211-7(89542)
षट् कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा।
धर्मिष्ठानि वरिष्ठानि तानितानि शृणूत्तमे॥ 13-211-8(89543)
यजनं याजनं चैव दानं पात्रे प्रतिग्रहः।
अध्यापनमध्ययनं षट्कर्मा धर्मभागृजुः॥ 13-211-9(89544)
नित्यः स्वाध्यायतो धर्मः नित्ययज्ञः सनातनः।
दानं प्रशंसते नित्यं ब्राह्मणेषु त्रिकर्मसु॥ 13-211-10(89545)
अयमेव परो धर्मः संवृतः सत्सु विद्यते।
गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान्॥ 13-211-11(89546)
पञ्चयज्ञविशुद्धात्मा ऋतुनित्योऽनसूयकः।
दान्तो ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः॥ 13-211-12(89547)
चक्षुःश्रोत्रमनोजिह्वास्निग्धवर्णप्रदः सदा।
अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः॥ 13-211-13(89548)
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा।
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः॥ 13-211-14(89549)
प्रातरुत्थाय वै पश्चाद्भोजने तु निमन्त्रयेत्।
सत्कृत्याऽनुव्रजेद्यश्च तस्य धर्मः सनातनः॥ 13-211-15(89550)
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते।
तदहं कीर्तयिष्यामि त्रिवर्गेषु च यद्यथा॥ 13-211-16(89551)
एकेनांशेन धर्मार्थः कर्तव्यो हितमिच्छता।
एकेनांशेन कामार्थमेकमंशं विवर्धयेत्॥ 13-211-17(89552)
निवृत्तिलक्षणः पुण्यो धर्मो मोक्षो विधीयते।
तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता॥ 13-211-18(89553)
सर्वभूतदया धर्मो निवृत्तेः परम सदा।
बुभुक्षितं पिपासार्तमतिथिं श्रान्तमागतम्।
अर्चयन्ति वरारोहे तेषामपि फलं महत्॥ 13-211-19(89554)
पात्रमित्येव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति॥ 13-211-20(89555)
काले सम्प्राप्तमतिथिं भोक्तुकाममुपस्थितम्।
यस्तं सम्भावयेत्तत्र व्यासोऽयं समुपस्थितः॥ 13-211-21(89556)
तस्य पूजां यथाशक्त्या सौम्यचित्तः प्रयोजयेत्।
चित्तमूलो भवेद्धर्मो धर्ममूलं भवेद्यशः॥ 13-211-22(89557)
तस्मात्सौम्येन चित्तेन दातव्यं देवि सर्वथा।
सौम्यचित्तस्तु यो दद्यात्तद्धि दानमनुत्तमम्॥ 13-211-23(89558)
यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर्मेदिनीतले।
केदाराश्च तटाकानि सरांसि सरितस्तथा॥ 13-211-24(89559)
तोयपूर्णानि दृश्यन्ते अप्रतर्क्योऽतिशोभने।
अल्पमल्पमपि ह्येकं दीयमानं विवर्धते॥ 13-211-25(89560)
पीडयाऽपि च भृत्यानां दानमेव विशिष्यते।
पुत्रदारधनं धान्यं न मृताननुगच्छति॥ 13-211-26(89561)
श्रेयो दानं च भोगश्च धनं प्राप्य यशस्विनि।
दानेन हि महाभागा भवन्ति मनुजाधिपाः॥ 13-211-27(89562)
नास्ति भूमौ दानसमं नास्ति दानसमो निधिः।
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्॥ 13-211-28(89563)
आश्रमे यस्तु तप्येत तपो मूलफलाशनः।
आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः।
मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत्॥ 13-211-29(89564)
सम्यक्तपश्चरन्तीह श्रद्दधाना वनाश्रमे।
गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम्॥ 13-211-30(89565)
उमोवाच। 13-211-31x(7481)
गृहाश्रमस्य या चर्या व्रतानि नियमाश्च ये।
तथा च देवताः पूज्याः सततं गृहमेधिना॥ 13-211-31(89566)
यद्यच्च परिहर्तव्यं गृहीणातिथिपर्वसु।
तत्सर्वं श्रोतुमिच्छामि कथ्यमानं त्वया विभो॥ 13-211-32(89567)
महेश्वर उवाच। 13-211-33x(7482)
गृहाश्रमस्य यन्मूलं फलं धर्मोऽयमुत्तमम्।
पादैश्चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः॥ 13-211-33(89568)
सारभूतं वरारोहे दध्नो घृतमिवोद्धृतम्।
तदहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि॥ 13-211-34(89569)
`दंपत्यलङ्करिष्णुश्च गृहदानरतिर्नरः।
कलत्रसौख्यं विन्देत नास्ति तत्र विचारणा॥ 13-211-35(89570)
स्त्रियो वा पुरुषो वाऽपि दम्पतीन्पूजयन्ति ते।
मनोभिलषितान्कामान्प्राप्नुवन्ति न संशयः॥' 13-211-36(89571)
शुश्रूषन्ते ये पितरं मातरं च गृहाश्रमे।
भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः॥ 13-211-37(89572)
तेषुतेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः।
पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते॥ 13-211-38(89573)
उमोवाच। 13-211-39x(7483)
मातापितृवियुक्तानां का चर्या गृहमेधिनाम्।
विधवानां च नारीणां भवानेव ब्रवीतु मे॥ 13-211-39(89574)
महेश्वर उवाच। 13-211-40x(7484)
देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम्।
अहिंसा सर्वभूतानामलोभः सत्यसन्धता॥ 13-211-40(89575)
ब्रह्मचर्यं शरण्यत्वाशौचं पूर्वाभिभाषणम्।
कृतज्ञत्वमपैशुन्यं सततं धर्मशीलता॥ 13-211-41(89576)
दिने द्विरभिषेकं च पितृदैवतपूजनम्।
गवाह्निकप्रदानं च संविभागोऽतिथिष्वपि॥ 13-211-42(89577)
दीपप्रतिश्रयं चैव दद्यात्पाद्यासनं तथा।
पञ्चमेऽहनि षष्ठे वा द्वादशेऽप्यष्टमेऽथवा।
तदुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत्॥ 13-211-43(89578)
श्मश्रुकर्म शिरोभ्यङ्गमञ्जनं दन्तधावनम्।
नैतेष्वहस्तु कुर्वीत तेषु लक्ष्मीः प्रतिष्ठिता॥ 13-211-44(89579)
व्रतोपवासनियमस्तपो दानं च शक्तितः।
भरणं भृत्यवर्गस्य दीनानामनुकम्पनम्॥ 13-211-45(89580)
परदारान्निवृत्तिश्च स्वदारेषु रतिः सदा।
शरीरमेकं दंपत्योर्विधात्रा पूर्वनिर्मितम्।
तस्मात्स्वदारनिरतो ब्रह्मचारी विधीयते॥ 13-211-46(89581)
शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च।
आर्जवे वर्तमानस्य सर्वभूतहितैषिणः॥ 13-211-47(89582)
प्रियातिथेश्च क्षान्तस्य धर्मार्जितधनस्य च।
गृहाश्रमपदस्थस्य किमन्यैः कृत्यमाश्रमैः॥ 13-211-48(89583)
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः।
तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः॥ 13-211-49(89584)
राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः।
व्यालग्रहाश्च डम्याश्च चोरा राजभटास्तथा॥ 13-211-50(89585)
सविद्याः सर्वजीवज्ञाः सर्वे वै विचिकित्सकाः।
दूराध्वानं प्रपन्नाश्च क्षीणपथ्योदना नराः।
एते चान्ये च बहवस्तर्कयन्ति गृहाश्रमम्॥ 13-211-51(89586)
मार्जारा मूषिकाः श्वानः सूकराश्च शुकास्तथा।
कपोतका कावटकाः सरीसृपनिषेवणाः।
अरण्यवासिनश्चान्ये सङ्घा ये मृगपक्षिणाम्॥ 13-211-52(89587)
एवं बहुविधा देवि लोकेऽस्मिन्सचराचराः।
गृहे क्षेत्रे बिले चैव शतशोऽथ सहस्रशः॥ 13-211-53(89588)
गृहस्थेन कृतं कर्म सर्वैस्तैरिह भुज्यते।
उपयुक्तं च यत्तेषां मतिमान्नानुशोचति॥ 13-211-54(89589)
धर्म इत्येव सह्कल्प्य यस्तु तस्य फलं शृणु।
सर्वयज्ञप्रणीतस्य हयमेधेन यत्फलम्।
वर्षे स द्वादशे देवि फलेनैतेन युज्यते॥ 13-211-55(89590)
आशापाशविमोक्षं च विधिधर्ममनुत्तमम्।
वृक्षमूलचरो नित्यं शून्यागारिनिवेशनमम्॥ 13-211-56(89591)
नदीपुलिनशायी च नदीतीरमनुव्रजन्।
विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः। 13-211-57(89592)
आत्मन्येवात्मना भावं समायोज्येह तेन वै।
आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा॥ 13-211-58(89593)
पवित्रनित्यो युक्तश्च तस्य धर्मःक सनातनः।
नैकत्र रमते सक्तो न चैकग्रामगोचरः।
युक्तोऽप्यटति यो युक्तो न चैकपुलिनाश्रयः॥ 13-211-59(89594)
एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः॥ ॥ 13-211-60(89595)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकादशाधिकद्विशततमोऽध्यायः॥ 211 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|